पूजा प्रतिज्ञा पाठ

श्रीमज्जिनेन्द्रमभिवंद्य जगत्त्रयेशम् ।
स्याद्वाद-नायक-मनंत-चतुष्टयार्हम् ।
श्रीमूलसंघ-सुदृशां सुकृतैकहेतुर ।
जैनेन्द्र-यज्ञ-विधिरेष मयाभ्यधायि ।।१।।

स्वस्ति त्रिलोक-गुरवे जिन-पुंगवाय ।
स्वस्ति स्वभाव-महिमोदय-सुस्थिताय ।
स्वस्ति प्रकाश-सहजोर्ज्जितं दृगंमयाय ।
स्वस्ति प्रसन्न-ललिताद् भुत-वैभवाय ।।२।।

स्वस्त्युच्छलद्विमल-बोध-सुधा-प्लवाय ।
स्वस्ति स्वभाव-परभाव-विभासकाय ।
स्वस्ति त्रिलोक-विततैक-चिदुद्गमाय ।
स्वस्ति त्रिकाल-सकलायत-विस्तृताय ।।३।।

द्रव्यस्य शुद्धिमधिगम्य यथानुरुपम् ।
भावस्य शुद्धिमधिकामधिगंतुकामः ।
आलंबनानि विविधान्यवलम्बय वल्गन् ।
भूतार्थ यज्ञ-पुरुषस्य करोमि यज्ञम् ।।४।।

अर्हत्पुराण - पुरुषोत्तम - पावनानि ।
वस्तून्यनूनमखिलान्ययमेक एव ।
अस्मिन् ज्वलद्विमल-केवल-बोधवह्रौ ।
पुण्यं समग्रमहमेकमना जुहोमि ।।५।।
ॐ ह्रीं विधियज्ञ प्रतिज्ञायै जिनप्रतिमाग्रे पुष्पांजलिं क्षिपामि ।