परमानंद स्तोत्र

परमानन्द-संयुक्तं, निर्विकारं निरामयम्।

ध्यानहीना न पश्यन्ति, निजदेहे व्यवस्थितम् ॥ १॥


अनंतसुखसम्पन्नं, ज्ञानामृतपयोधरम्।

अनंतवीर्यसम्पन्नं, दर्शनं परमात्मन: ॥ २॥


निर्विकारं निराबाधं, सर्वसङ्गविवर्जितम्।

परमानन्दसम्पन्नं, शुद्धचैतन्यलक्षणम्॥ ३॥


उत्तमा स्वात्मचिन्ता स्यात् देहचिन्ता च मध्यमा।

अधमा कामचिन्ता स्यात्,परचिन्ताधमाधमा॥ ४॥


निर्विकल्प समुत्पन्नं, ज्ञानमेव सुधारसम्।

विवेकमञ्जलिं कृत्वा, तं पिबंति तपस्विन:॥ ५॥


सदानन्दमयं जीवं, यो जानाति स पण्डित:।

स सेवते निजात्मानं, परमानन्दकारणम्॥ ६॥


नलिन्याच्च यथा नीरं, भिन्नं तिष्ठति सर्वदा।

सोयमात्मा स्वभावेन, देहे तिष्ठति निर्मल:॥ ७॥


द्रव्यकर्ममलैर्मुक्तं भावकर्मविवर्जितम्।

नोकर्मरहितं सिद्धं निश्चयेन चिदात्मकम्॥ ८॥


आनन्दं ब्रह्मणो रूपं, निजदेहे व्यवस्थितम्।

ध्यानहीना न पश्यन्ति,जात्यन्धा इव भास्करम्॥ ९॥


सद्ध्यानं क्रियते भव्यैर्मनो येन विलीयते।

तत्क्षणं दृश्यते शुद्धं, चिच्चमत्कारलक्षणम्॥ १०॥


ये ध्यानशीला मुनय: प्रधानास्ते दु:खहीना नियमाद्भवन्ति।

सम्प्राप्य शीघ्रं परमात्मतत्त्वं, व्रजन्ति मोक्षं क्षणमेकमेव॥ ११॥


आनन्दरूपं परमात्मतत्त्वं, समस्तसंकल्पविकल्पमुक्तम्।

स्वभावलीना निवसन्ति नित्यं, जानाति योगी स्वयमेव तत्त्वम्॥१२॥


चिदानन्दमयं शुद्धं, निराकारं निरामयम्।

अनंतसुखसम्पन्नं सर्वसङ्गविवर्जितम्॥ १३॥


लोकमात्रप्रमाणोयं, निश्चये न हि संशय:।

व्यवहारे तनुमात्र: कथित: परमेश्वरै:॥ १४॥


यत्क्षणं दृश्यते शुद्धं तत्क्षणं गतविभ्रम:।

स्वस्थचित्त: स्थिरीभूत्वा, निर्विकल्पसमाधिना॥१५॥


स एव परमं ब्रह्म, स एव जिनपुङ्गव:।

स एव परमं तत्त्वं, स एव परमो गुरु : ॥ १६॥


स एव परमं ज्योति:, स एव परमं तप:।

स एव परमं ध्यानं, स एव परमात्मक:॥ १७॥


स एव सर्वकल्याणं, स एव सुखभाजनम्।

स एव शुद्धचिद्रूपं, स एव परम: शिव:॥ १८॥


स एव परमानन्द:, स एव सुखदायक:।

स एव परमज्ञानं, स एव गुणसागर: ॥ १९॥


परमाल्हादसम्पन्नं, रागद्वेषविवर्जितम्।

सोहं तं देहमध्येषु यो जानाति स पण्डित:॥ २०॥


आकाररहितं शुद्धं, स्वस्वरूपे व्यवस्थितम्।

सिद्धमष्टगुणोपेतं, निर्विकारं निरञ्जनम्॥ २१॥


तत्सद्दर्शनं निजात्मानं, प्रकाशाय महीयसे।

सहजानन्दचैतन्यं, यो जानाति स पण्डित:॥ २२॥


पाषाणेषु यथा हेम, दुग्धमध्ये यथा घृतम्।

तिलमध्ये यथा तैलं, देहमध्ये तथा शिव:॥ २३॥


काष्ठमध्ये यथा वह्नि:, शक्तिरूपेण तिष्ठति।

अयमात्मा शरीरेषु, यो जानाति स पण्डित:॥२४॥