सरस्वत्या: प्रसादेन, काव्यं कुर्वन्ति मानवा:।
तस्मान्निश्चलभावेन, पूजनीया सरस्वती ॥१॥
श्रीसर्वज्ञ-मुखोत्पन्ना, भारती बहुभाषिणी।
अज्ञानतिमिरं हन्ति, विद्या बहुविकासनी ॥२॥
सरस्वती मया दृष्टा, दिव्या कमललोचना।
हंसस्कन्धसमारूढ़ा,वीणा-पुस्तकधारिणी॥३॥
प्रथमं भारती नाम, द्वितीयं च सरस्वती।
तृतीयं शारदा देवी, चतुर्थं हंसगामिनी॥४॥
पंचमं विदुषां माता, षष्ठं वागीश्वरि तथा।
कुमारी सप्तमं प्रोक्तं,अष्टमं ब्रह्मचारिणी॥५॥
नवमं च जगन्माता, दशमं ब्राह्मिणी तथा।
एकादशं तु ब्रह्माणी, द्वादशं वरदा भवेत्॥६॥
वाणी त्रयोदशं नाम, भाषाचैव चतुर्दशं।
पंचदशं च श्रुतदेवी, षोडशं गौर्निगद्यते॥७॥
एतानि श्रुतनामानि, प्रातरुत्थाय य: पठेत्।
तस्य संतुष्यति माता, शारदा वरदा भवेत्॥८॥
सरस्वती नमस्तुभ्यं, वरदे कामरूपिणी।
विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा॥९॥